संस्कृतम् – A blog in Sanskrit

dhanam dehi

November 24, 2009 · Leave a Comment

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥

→ Leave a CommentCategories: podcast · sanskrit · संस्कृतं
Tagged: ,

sarve guNAH – 2

November 22, 2009 · Leave a Comment

अस्य लेखस्य प्रथमः भागः अत्र वर्तते

प्रजाप्रभुत्वम्
चीनदेशः इति उच्चारिते जनाः झटिति वदन्ति, तत्र प्रजाप्रभुत्वं नास्ति इति । प्रजाप्रभुत्वस्य अभावे तस्य देशस्य नायकाः यथेच्छं कर्तुं शक्नुवन्ति । अतः एव उन्नतोन्नतप्रगतिः साधिता । तादृशी प्रगतिः, जनानाम् अभिप्रायस्य उपेक्षा वा अन्यत्र (यथा अमेरिकायां वा भारते वा) न शक्या इत्यपि बहवो वदन्ति । किञ्च अमेरिकादयः देशाः चीनदेशे अपि प्रजाप्रभुत्वस्य आनयनाय यतेरन् इति अपरे अपेक्षन्ते ।

अमेरिकायां तु ‘वयं प्रजाप्रभुत्वस्य आचारे श्रेष्ठाः, वयमेव प्रथमं कृतवन्तः ‘ एवमादयः विचाराः जनानां मनसि सुस्थापितं विद्यते । एवं सति, केचन अमेरिकाजनाः ‘ओबामा चीनदेशं प्रेरयेत् प्रजाप्रभुत्वस्य प्रयोगाय’ इति मन्यन्ते ।

इदानीम् ओबामा तु चीनदेशस्य प्रजाप्रभुत्वस्य विषये कणमपि न भाषते । क्व प्रेरणा वा अनुमोदनं वा ?! सः किमपि वक्तुम् उद्युक्तः भवति चेदपि चीनदेशीयाः नेतारः सहसैव ‘भवता किमपि न वक्तव्यम् । एतत् आन्तरिकः विषयः ।’ इति वदन्तः तं निवारयन्ति । तादृशं अमेरिकायाः निराकरणं कर्तुं विश्वस्य केचन देशाः एव उत्सहन्ते !

मानवीयता
मानवाधिकारस्य (Human rights) विषये अपि तथैव चीनदेशम् अनेके निन्दन्ति । किञ्चातः ? तत्र तु स्थितिः यथापूर्वं भवति ।

West wing नामके दूरदर्शन-धारावहिन्यां कश्चन प्रसङ्गः आसीत् । तस्मिन् अङ्के अमेरिकायाः राष्ट्रपतिः चीनप्रवेशं गच्छति । तस्मात् पूर्वं सिद्धतार्थं द्वयोः अपि देशयोः सचिवादयः बहुधा चर्चां कुर्वन्ति । तासु चर्चासु अन्यतमा आसीत् ‘अमेरिका-राष्ट्रपतिः टिनमेन् चतुष्पथे आतिथ्यं स्वीकुर्यात्’ इति । टिनमेन् प्रदेशे एव अनेके जनाः प्रजाप्रभुत्वं, स्वाधिकारादिकम् इच्छन्तः आन्दोलनम् अकुर्वन् । चीनदेशस्य नेतारः तु निर्दयं घातितवन्तः तान् प्रतिवादिनः । तस्मिन् क्षेत्रे अमेरिका-राष्ट्रपतेः आतिथ्यस्वीकारः । अहो वैचित्र्यम् !

एषः प्रसङ्गः यद्यपि काल्पनिकः, वास्तविकात् तावद्दूरे नैव !

यस्य चीनदेशस्य अस्ति वित्तं, अमेरिका वा अन्यः वा किं कुर्यात् ?! सर्वे गुणाः काञ्चनमाश्रयन्ति ।

→ Leave a CommentCategories: sanskrit
Tagged: , ,

sarve guNAH – 1

November 18, 2009 · 1 Comment

यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥

एतत् सुभाषितं विश्रुतम् इति मन्ये । सर्वे गुणाः काञ्चनं (हिरण्यम्) आश्रयन्ति । धनिनम् एव लोकः राजा इति मन्यते इति वदति सुभाषितम् । सत्यमेतत् ।

ओबामा इदानीमेव चीनदेशस्य प्रवासं समापितवान् अस्ति । केचन अंशाः गणनीयाः ये अमेरिका-चीन-देशयोः अप्राप्तसम्मताः । तन्नाम, तयोः देशयोः विरोधः एव केषुचन विषयेषु । त्रयाणाम् उदाहरामि ।

* आर्थिकव्यवस्था
* प्रजातन्त्रम्
* मानवीयता

आर्थिकव्यवस्था
चीनदेशीयाः ’रेन्मिन्बि’ धनसाधनस्य मूल्यं डालर् एतेन सह नियोजितवन्तः । (यथा भारते रूप्यकम्, अमेरिकायां डालर् भवति, चीनदेशे रेन्मिन्बि भवति ।) नियोजितं नाम, यदा डालर् मूल्यम् अधिकं भवति, रेन्मिन्बि मूल्यम् अपि वर्धते । यदा डालर् मूल्यं क्षीयते, रेन्मिन्बि मूल्यमपि । एतां व्यवस्थां ’pegging’ इति वदन्ति । एतस्याः छायाव्यवस्थायाः कः क्लेशः जातः ?

मन्यतां यत् एषा व्यवस्था देशद्वयेन आश्रिता इति । प्रथमदेशः तावान् धनिकः न । तस्य सम्पत् लघ्वी । अपरः देशः चीनदेशः यस्य अनुपेक्षणीया सम्पत्, अनुपेक्षणीयं च व्यापारादिकम् । प्रथमदेशः छायाव्यवस्थाम् आचरति । तथापि तस्य प्रभावः न्यूनः एव, यतः तस्य संपत्, व्यापारादिकं च अगणनीयं वर्तते । परन्तु चीनदेशस्य न तथा ।

चीनदेशः स्वस्य व्यापारेण यां शक्तिं प्राप्नोति धनमूल्ये, तस्याः शक्त्याः विकारम् अनुभवितुम् अर्हति । बहूनां मतम् एतत् । एतस्मिन् अकृते, विश्वस्य अन्येषां राष्ट्राणां हानिः, अमेरिकायाः अपि । अतः बहवः देशाः चीनदेशं प्रेरयन्तः सन्ति, छायाव्यवस्थां त्यक्तुम् । परन्तु कोऽपि न सफलः एतावत् पर्यन्तम् । ओबामा अपि तथैव कर्तुम् असमर्थः ।

(अनुवर्तते)

→ 1 CommentCategories: sanskrit · संस्कृतं
Tagged: , , ,

dvau panthAnau

November 15, 2009 · 2 Comments

Two roads diverged in a yellow wood इत्याह …
श्रेयश्च प्रेयश्च मनुष्यमेतः इत्याह …

→ 2 CommentsCategories: sanskrit
Tagged: ,

4 dinAni, 6 vimAnAni

November 13, 2009 · Leave a Comment

गते सप्ताहे देशान्तरम् अगच्छं तान्त्रिकमेलनार्थम् । अतः एव लेखितुम् असमर्थः । इदानीं प्रत्यागतोऽस्मि । लेखनं / श्रावणम् अनुवर्तयामि ।

→ Leave a CommentCategories: sanskrit
Tagged:

vasudhaiva kuTumbakam

November 4, 2009 · Leave a Comment

वसुधैव कुटुम्बकम् इति उक्तिं वयं सर्वे श्रुतवन्तः स्युः । एषा उक्तिः पञ्चतन्त्रे विद्यते । तां कथां श्रावयामि ।

→ Leave a CommentCategories: podcast · sanskrit
Tagged: , ,

Kalidasa and global warming

November 2, 2009 · Leave a Comment

कालिदासः किम् एवम् अमन्यत ?

→ Leave a CommentCategories: podcast · sanskrit · संस्कृतं
Tagged: , , ,

pratispandanam

November 1, 2009 · Leave a Comment

केषाञ्चन प्रतिस्पन्दनम् अधिकृत्य , अपि च केषाञ्चन लेखानाम् उल्लेखः …

अस्मिन् podcast मध्ये एते विषयाः द्योतिताः –
धनञ्जयस्य उच्चारणविषये कथनम् अत्र श्रूयताम्

ओलिविया जड्सन् वर्यायाः मन्दहासस्य विषयये अत्र पठ्यताम्

कालिदास-blogspot-तः लेखः अत्र पठ्यताम्

→ Leave a CommentCategories: podcast · sanskrit · संस्कृतं
Tagged: ,

chatuShTayam

October 29, 2009 · Leave a Comment

कश्चन संशयः ‘चतुष्टयम्’ इत्यस्य प्रयोगे । श्रुत्वा भवताम् अभिप्रायः सूच्यताम् ।

→ Leave a CommentCategories: sanskrit
Tagged: ,

saudhAgrANi purasyAsya …

October 27, 2009 · Leave a Comment

लघुप्रवासं कृत्वा न्यू-यार्क्-तः प्रत्यागतोऽस्मि …

→ Leave a CommentCategories: sanskrit
Tagged: ,